|
|
 |
 |
|
|
१८ स्वर्गारोहणपर्व.jpg)
स्वर्गारोहणपर्व - अध्याय 002
॥ श्रीः ॥
18.2. अध्यायः 002
Mahabharata - SwargarohaNa Parva - Chapter Topics
स्वर्गे कर्णादिबन्धुजनानपश्यता युधिष्ठिरेण देवान्प्रति यत्र कुत्रापि बन्धुजनैः सहैव स्वस्य निवासेच्छानिवेदनम्॥ 1 ॥ देवैर्युधिष्ठिराय बन्धुजनप्रदर्शनं चोदितेन देवदूतेन तस्य नरकप्रदेशप्रापणम्॥ 2 ॥ दुर्दर्शनरकदर्शनासहिष्णुतया सह दूतेन प्रतिनिवर्तमानेन युधिष्ठिरेण श्रुतपूर्वकण्ठध्वनिश्रवणम्॥ 3 ॥ ततो युधिष्ठिरपृष्टैस्तैस्तं प्रित स्वेषां कर्मभीमादित्वकथनम्॥ 4 ॥ ततस्तेन दूतंप्रति इन्द्रे स्वस्य तत्समीपं प्रत्यनागमनचोदना॥ 5 ॥ दूतेनेन्द्रे युधिष्ठिरचिकीर्षितनिवेदनम्॥ 6 ॥
Mahabharata - SwargarohaNa Parva - Chapter Text
युधिष्ठिर उवाच।
नेह पश्यामि विबुधा राधेयममितौजसम्।
भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ॥ 18-2-1(98454)
जुहुवुर्ये शरीराणि रणवह्नौ महारथाः।
राजानो राजपुत्राश्च ये मदर्थे हता रणे॥ 18-2-2(98455)
क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः।
तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः॥ 18-2-3(98456)
यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः।
स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः॥ 18-2-4(98457)
कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः।
न तैरहं विना वत्स्ये भ्रातृभिर्ज्ञातिभिस्तथा॥ 18-2-5(98458)
मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि।
कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै॥ 18-2-6(98459)
इदं च परितप्यामि पुनःपुनरहं सुराः।
यन्मातुः सदृशौ पादौ तस्याहममितात्मनः॥ 18-2-7(98460)
दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम्।
न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे॥ 18-2-8(98461)
तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम्।
अविज्ञातो मया योसौ घातितः सव्यसाचिना॥ 18-2-9(98462)
भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम।
अर्जुनं चेन्द्रसंकाशं यमौ चैव यमोपमौ॥ 18-2-10(98463)
द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम्।
न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः॥ 18-2-11(98464)
किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः।
यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम॥ 18-2-12(98465)
देवा ऊचुः। 18-2-13x(8096)
यदि वै तत्र ते श्रद्धा गम्यतां तत्र माचिरम्।
प्रिये हि तव वर्तामो देवराजस्य शासनात्॥ 18-2-13(98466)
वैशम्पायन उवाच। 18-2-14x(8097)
इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन्।
युधिष्ठिरस्य सुहृदो दर्शयेतदि परंतप॥ 18-2-14(98467)
ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः।
सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः॥ 18-2-15(98468)
अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः।
पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः॥ 18-2-16(98469)
तमसा संवृतं घोरं केशशैवलशाद्वलम्।
युक्तं पापकृतां गन्धैर्मासशोणितकर्दमम्॥ 18-2-17(98470)
दंशोत्पातकभल्लूकमक्षिकामशकावृतम्।
इतश्चेतश्च कुणपैः समन्तात्परिवारितम्॥ 18-2-18(98471)
अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्।
ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम्॥ 18-2-19(98472)
अयोमुखैश्च काकाद्यैर्गृध्रैश्च समभिद्रुतम्।
सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम्॥ 18-2-20(98473)
मेदोरुधिरयुक्तैश्च च्छिन्नबाहूरुपाणिभिः।
निकृत्तोदरपदैश्च तत्रतत्र प्रवेशितैः॥ 18-2-21(98474)
स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम्।
जगाम राजा धर्मान्मा मध्ये बहु विचिन्तयन्॥ 18-2-22(98475)
ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम्।
असिपत्रवनं चैव निशितं क्षुरसंवृतम्॥ 18-2-23(98476)
करम्भवालुकास्तप्ता आयसीश्चि शिलाः पृथक्।
लोहकुंभीश्च तैलस्य क्वाथ्यमानाः समन्ततः॥ 18-2-24(98477)
कूटशाल्मलिकं तापि दुःस्पर्शं तीक्ष्णकण्टकम्।
ददर्शान्याश्च कौन्तेयो यातनाः पापकर्मिणाम्॥ 18-2-25(98478)
स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह।
कियदध्वानमस्माभिर्गन्तव्यमिममीदृशम्॥ 18-2-26(98479)
क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि।
देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम्॥ 18-2-27(98480)
स संनिववृते श्रुत्वा धर्मराजस्य भाषितम्।
देवदूतोऽब्रवीचैनमेतावद्गमनं तव॥ 18-2-28(98481)
निवर्तितव्यो हि मया तताऽस्म्युक्तो दिवौकसैः।
यदि श्रान्तोसि राजेन्द्रि त्वमथागन्तुमर्हसि॥ 18-2-29(98482)
युधिष्ठिरस्तु निर्विण्णस्तेनि गन्धेन मूर्छितः।
निवर्तने धृतमनाः पर्यावर्तत भारत॥ 18-2-30(98483)
सं संनिवृत्तो धर्मात्मा दुःखशोकसमाहतः।
शुश्राव तत्र वदतां दीना वाचः समन्ततः॥ 18-2-31(98484)
भोभो धर्मज राजर्षे पुण्याभिजन पाण्वन।
अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम्॥ 18-2-32(98485)
आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः।
तव गन्धानुगस्तात येनास्मान्सुखमागमत्॥ 18-2-33(98486)
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ।
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम॥ 18-2-34(98487)
संतिष्ठस्व महाबाहो मुहूर्तमिह भारत।
त्वयि तिष्ठति कौरव्य यातनाऽस्मान्न बाधते॥ 18-2-35(98488)
एवं बहुविधा वाचः कृपणा वेदनावताम्।
तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप॥ 18-2-36(98489)
तेषां तु वचनं श्रुत्वा दयावान्दीनभाषिणाम्।
अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः॥ 18-2-37(98490)
स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनःपुनः।
ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः॥ 18-2-38(98491)
अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः।
उवाच के भवन्तो वै किमर्थमिह तिष्ठथ॥ 18-2-39(98492)
इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे।
कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो॥ 18-2-40(98493)
नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत।
द्रौप्दी द्रौपदेयाश्चि इत्येवं ते विचुक्रुशुः॥ 18-2-41(98494)
ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप।
ततो विममृशे राजा किंत्विदं दैवकारितम्॥ 18-2-42(98495)
किन्तु तत्कलुषं कर्म कृतमेभिर्महात्मभिः।
कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया॥ 18-2-43(98496)
य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे।
नाहं जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम्॥ 18-2-44(98497)
किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः।
तथा श्रिया युतः पापैः सहसर्वैः पदानुगैः॥ 18-2-45(98498)
महेन्द्रि इव लक्ष्मीवानास्ते परमपूजितः।
कस्येदानीं विकारोऽयं य इमे नरकं गताः॥ 18-2-46(98499)
सर्वे धर्मविदः शूराः सत्यागमपरायणाः।
क्षत्रधर्मरताः सन्तो यज्वानो भूरिदक्षिणाः॥ 18-2-47(98500)
किंनु सुप्तोस्मि जागर्मि चेतयामि न चेतये।
अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः॥ 18-2-48(98501)
एवं बहुविधं राजा विममर्श युधिष्ठिरः।
दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः॥ 18-2-49(98502)
क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः।
देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः॥ 18-2-50(98503)
स तीव्रशोकसंतप्तो देवदूतमुवाच ह।
गम्यतां तत्र येषां त्वं दूतस्तेषामुपान्तिकम्॥ 18-2-51(98504)
न ह्यहं तत्र यास्यामि स्थितोस्मीति निवेद्यताम्।
मत्संश्रयादिमे दूनाः सुखिनो भ्रातरो हि मे॥ 18-2-52(98505)
इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता।
जगामि तत्र यत्रास्ते देवराजः शतक्रतुःठ॥ 18-2-53(98506)
निवेदयामास च तद्धर्मराजचिकीर्षितम्।
यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप॥ ॥ 18-2-54(98507)
इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
Mahabharata - SwargarohaNa Parva - Chapter Footnotes
7-2-24 करंभवालुकाः श्वेतसूक्ष्मवालुका भ्राष्ट्रवालुका इत्यर्थः॥ 7-2-49 विममर्श विचारं कृतवान्॥ 7-2-52 दूनाः खिन्नाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|